अध्याय 10 - श्लोक 17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan.
keṣu keṣu ca bhāveṣu cintyo’si bhagavanmayā .. 17 ..


हे योगिन् ! आपका सदा चिन्तन करता हुआ मैं आपको किस प्रकार जानूँ ? हे भगवन् ! आप किन-किन भावों में अर्थात् वस्तुओं में मेरे द्वारा चिन्तन किये जाने योग्य हैं ॥ १७ ॥
तात्पर्य पढ़ें
कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्त्यन्। केषु केषु च भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन् मया ॥ १७ ॥