अध्याय 10 - श्लोक 2

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिहि देवानां महर्षीणां च सर्वशः ॥ २ ॥

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ.
ahamādihi devānāṃ maharṣīṇāṃ ca sarvaśaḥ .. 2 ..


ब्रह्मादि देवता मेरे प्रभवको यानी अतिशय प्रभुत्व-शक्तिको अथवा प्रभव यानी मेरी उत्पत्तिको नहीं जानते और भृगु आदि महर्षि भी (मेरे प्रभवको) नहीं जानते।

वे किस कारण से नहीं जानते? सो कहते हैं—

क्योंकि देवों का और महर्षियों का सब प्रकारसे मैं ही आदि—मूल कारण हँ ॥ २ ॥

तथा—

तात्पर्य पढ़ें

न मे विदुः न जानन्ति सुरगणा ब्रह्मादयः। किं ते न विदुः मम प्रभवं प्रभावं प्रभुशक्त्यति-शयम्, अथवा प्रभवं प्रभवन् उत्पत्तिम्। न अपि महर्षयो भृग्वादयो विदुः।

कस्मात् ते न विदुः इति उच्यते—

अहम् आदिः कारणं हि यस्माद् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥ २ ॥