आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān .
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī .. 21 ..
द्वादश आदित्योंमें मैं विष्णु नामक आदित्य हूँ। प्रकाश करनेवाली ज्योतियोंमें मैं किरणोंवाला सूर्य हूँ। वायु-सम्बन्धी देवताओंके भेदोंमें मैं मरीचि नामक देवता हूँ और नक्षत्रोंमें मैं शशी—चन्द्रमा हूँ ॥ २१ ॥
तात्पर्य पढ़ें
आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम्, ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मि नक्षत्राणाम् अहं शशी चन्द्रमाः ॥ २१ ॥