वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
vedānāṃ sāmavedo’smi devānāmasmi vāsavaḥ .
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā .. 22 ..
मैं वेदों में सामवेद हूँ, रुद्र, आदित्य आदि देवों में इन्द्र हूँ और चक्षु आदि एकादश इन्द्रियों में संकल्प-विकल्पात्मक मन हूँ। सब प्राणियों में (मैं) चेतना हूँ। कार्य-करण के समुदायरूप शरीर में सदा प्रकाशित रहनेवाली जो बुद्धिवृत्ति है, उसका नाम चेतना है ॥ २२ ॥
तात्पर्य पढ़ें
वेदानां मध्ये सामवेदः अस्मि, देवानां रुद्रा-दित्यादीनां वासव इन्द्रः अस्मि, इन्द्रियाणाम् एकादशानां चक्षुरादीनां मनः च अस्मि सङ्कल्पविकल्पात्मकं मनः च अस्मि । भूतानाम् अस्मि चेतना, कार्यकरणसङ्घाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना ॥ २२ ॥