अध्याय 10 - श्लोक 23

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām .
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham .. 23 ..


एकादश रुद्रों में मैं शंकर हूँ। यक्ष और राक्षसों में मैं धनेश्वर कुबेर हूँ। आठ वसुओं में मैं पावक—अग्नि हूँ। शिखरवालों में (पर्वतों में) मैं सुमेरु पर्वत हूँ ॥ २३ ॥
तात्पर्य पढ़ें
रुद्राणां एकादशानां शङ्करः च अस्मि, वित्तेशः कुबेरो यक्षरक्षसां यक्षाणां रक्षसां च, वसूनाम् अष्टानां पावकः च अस्मि अग्निः, मेरुः शिखरिणां शिखरवताम् अहम् ॥ २३ ॥