अध्याय 10 - श्लोक 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

anantaścāsmi nāgānāṃ varuṇo yādasāmaham .
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham .. 29 ..


नागों के नाना भेदों में मैं अनन्त हूँ अर्थात् नागराज शेष हूँ और जलसम्बन्धी देवों में उनका राजा वरुण मैं हूँ। मैं पितरों में अर्यमा नामक पितृराज हूँ और शासन करनेवालों में यमराज हूँ ॥ २९ ॥
तात्पर्य पढ़ें
अनन्तः च अस्मि नागानां नागविशेषाणां नागराजः च अस्मि। वरुणो यादसाम् अहम् अब्देवतानां राजा अहम्। पितॄणाम् अर्यमा नाम पितृराजः च अस्मि, यमः संयमतां संयमनं कुर्वताम् अहम् ॥ २९ ॥