अध्याय 10 - श्लोक 30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham .
mṛgāṇāṃ ca mṛgendro’haṃ vainateyaśca pakṣiṇām .. 30 ..


दैत्यों में अर्थात् दिति के वंशजों में मैं प्रह्लाद नामक दैत्य हूँ और कलना—गणना करनेवालों में मैं काल हूँ। पशुओं में पशुओं का राजा सिंह या व्याघ्र और पक्षियों में विनतापुत्र—गरुड़ मैं हूँ ॥ ३० ॥
तात्पर्य पढ़ें
प्रह्लादो नाम च अस्मि दैत्यानां दितिवंश्यानाम्, कालः कलयतां कलनं गणनं कुर्वताम् अहम्, मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वा अहम्, वैनतेयः च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम् ॥ ३० ॥