पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham .
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī .. 31 ..
पवित्र करनेवालों में वायु और शस्त्रधारियों में दशरथपुत्र राम मैं हूँ, मछली आदि जलचर प्राणियों में मकर नामक जलचरों की जातिविशेष मैं हूँ, स्रोतों में—नदियों में मैं जाह्नवी—गङ्गा हूँ ॥ ३१ ॥
तात्पर्य पढ़ें
पवनो वायुः पवतां पावयितॄणाम् अस्मि, रामः शस्त्रभृताम् अहं शस्त्राणां धारयितॄणां दाशरथी रामः अहम् । झषाणां मत्स्यादीनां मकरो नाम जातिविशेषः अहं स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा ॥ ३१ ॥