अध्याय 10 - श्लोक 33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥

akṣarāṇāmakāro’smi dvandvaḥ sāmāsikasya ca .
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ .. 33 ..


अक्षरों में—वर्णों में अकार—‘अ’ वर्ण मैं हूँ। समाससमूह में द्वन्द्व नामक समास मैं हूँ तथा मैं ही अविनाशी काल—जो क्षण-घड़ी आदि नामों से प्रसिद्ध है वह समय अथवा काल का भी काल परमेश्वर हूँ और मैं ही विधाता—सब जगत् के कर्मफल का विधान करने वाला तथा सब ओर मुख वाला परमात्मा हूँ ॥ ३३ ॥
तात्पर्य पढ़ें
अक्षराणां वर्णानाम् अकारो वर्णः अस्मि द्वन्द्वः समासः अस्मि सामासिकस्य समाससमूहस्य । किं च अहम् एव अक्षयः अक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः, अथवा परमेश्वरः कालस्य अपि कालः अस्मि, धाता अहं कर्मफलस्य विधाता सर्वजगतो विश्वतोमुखः सर्वतोमुखः ॥ ३३ ॥