अध्याय 10 - श्लोक 34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्य नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām .
kīrtiḥ śrīrvākya nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā .. 34 ..


धनादिका नाश करनेवाला और प्राणोंका नाश करनेवाला ऐसे दो प्रकारका मृत्यु ‘सर्वहर’ कहलाता है, वह सर्वहर मृत्यु मैं हूँ। अथवा परम ईश्वर प्रलयकालमें सबका नाश करनेवाला होनेसे सर्वहर है, वह मैं हूँ।

भविष्यत्में जिनका कल्याण होनेवाला है अर्थात् जो उत्कर्षता-प्राप्तिके योग्य हैं उनका उद्भव अर्थात् उत्कर्ष—उन्नतिकी प्राप्तिका कारण मैं हूँ।

स्त्रियोंमें जो कीर्ति, श्री, वाणी, स्मृति, बुद्धि, धृति और क्षमा ये उत्तम स्त्रियाँ हैं, जिनके आभासमात्र-सम्बन्धसे भी लोग अपनेको कृतार्थ मानते हैं, वे मैं हूँ ॥ ३४ ॥

तात्पर्य पढ़ें

मृत्युः द्विविधो धनादिहरः प्राणहरः च सर्वहर उच्यते सः अहम् इत्यर्थः। अथवा

पर ईश्वरः प्रलये सर्वहरणात् सर्वहरः सः अहम् ।

उद्भव उत्कर्षः अभ्युदयः तत्प्राप्तिहेतुः च अहम्, केषां भविष्यतां भाविकल्याणानाम् उत्कर्षप्राप्तियोग्यानाम् इत्यर्थः ।

कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा इति एता उत्तमाः स्त्रीणाम् अहम् अस्मि यासाम् आभासमात्रसम्बन्धेन अपि लोकः कृतार्थम् आत्मानं मन्यते ॥ ३४ ॥