अध्याय 10 - श्लोक 37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥

vṛṣṇīnāṃ vāsudevo’smi pāṇḍavānāṃ dhanañjayaḥ .
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ .. 37 ..


वृष्णिवंशियों में यह तुम्हारा सखा वासुदेव मैं हूँ। पाण्डवों में धनञ्जय अर्थात् तू ही मैं हूँ। मुनियों में अर्थात् मनन करनेवालों में और सब पदार्थों को जाननेवालों में भी मैं व्यास हूँ। कवियों में अर्थात् त्रिकालदर्शियों में मैं शुक्राचार्य हूँ ॥ ३७ ॥
तात्पर्य पढ़ें
वृष्णीनां वासुदेवः अस्मि अयम् एव अहं त्वत्सखा, पाण्डवानां धनञ्जयः त्वम् एव, मुनीनां मननशीलानां सर्वपदार्थज्ञानिनाम् अपि अहं व्यासः, कवीनां क्रान्तदर्शिनाम् उशना कविः अस्मि ॥ ३७ ॥