दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
daṇḍo damayatāmasmi nītirasmi jigīṣatām .
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham .. 38 ..
दमन करनेवालों का दण्ड अर्थात् उन्मार्ग में चलनेवालों को दमन करने की शक्ति मैं हूँ। विजय चाहनेवालों का न्याय मैं हूँ। गुप्त रखने योग्य भावों में मौन मैं हूँ। ज्ञानवानों का ज्ञान मैं हूँ॥ ३८॥
तात्पर्य पढ़ें
दण्डो दमयतां दमयितृणाम् अस्मि अदान्तानां दमकारणम्, नीतिः अस्मि जिगीषतां जेतुम् इच्छताम्, मौनं च एव अस्मि गुह्यानां गोप्यानाम्, ज्ञानं ज्ञानवताम् अहम्॥ ३८॥