अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate.
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ .. 8 ..
तथा—
मैं वासुदेव नामक परब्रह्म समस्त जगत् की उत्पत्ति का कारण हूँ और मुझसे ही यह स्थिति, नाश, क्रिया और कर्मफलोपभोगरूप विकारमय सारा जगत् घुमाया जा रहा है। इस अभिप्राय को (अच्छी प्रकार) समझकर भावसमन्वित—परमार्थतत्त्व की धारणा से युक्त हुए बुद्धिमान्—तत्त्वज्ञानी पुरुष मुझे भजते हैं अर्थात् मेरा चिन्तन किया करते हैं ॥ ८ ॥
तात्पर्य पढ़ें
अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः मत्त एव स्थितिनाशक्रिया-फलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते इति एवं मत्वा भजन्ते सेवन्ते मां बुधा अवगततत्त्वार्था भावसमन्विता भावो भावना परमार्थतत्त्वाभिनिवेशः तेन समन्विताः संयुक्ता इत्यर्थः ॥ ८ ॥