दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्धासस्तस्य महात्मनः ॥ १२ ॥
यदि भाः सदृशी सा स्याद्धासस्तस्य महात्मनः ॥ १२ ॥
divi sūryasahasrasya bhavedyugapadutthitā .
yadi bhāḥ sadṛśī sā syāddhāsastasya mahātmanaḥ .. 12 ..
द्युलोक में अर्थात् आकाश में या तीसरे स्वर्गलोक में एक साथ उदय हुए हजारों सूर्यों का जो एक साथ उत्पन्न हुआ प्रकाश हो, वह प्रकाश उस महात्मन्—विश्वरूप के प्रकाश के सदृश कदाचित् हो तो हो, अथवा सम्भव है कि न भी हो अर्थात् उससे भी विश्वरूप का प्रकाश ही अधिक हो सकता है ॥ १२ ॥
तथा—
तात्पर्य पढ़ें
दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य या युगपत् उत्थिता भाः सा यदि सदृशी स्यात् तस्य महात्मनो विश्वरूपस्य एव भासो यदि वा न स्यात् ततः अपि विश्वरूपस्य एव भा अतिरिच्यते इति अभिप्रायः ॥ १२ ॥