किं च—
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
kiṃ ca—
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā .
apaśyaddevadevasya śarīre pāṇḍavastadā .. 13 ..
उस समय पाण्डुपुत्र अर्जुन ने देव, पितृ और मनुष्यादि भेद से अनेक प्रकार विभक्त हुए समस्त जगत् को उस विश्वरूप देवाधिदेव हरि के शरीर में ही एकत्र स्थित देखा ॥ १३ ॥
तात्पर्य पढ़ें
तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यद् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा ॥ १३ ॥