पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थमृर्षीश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
ब्रह्माणमीशं कमलासनस्थमृर्षीश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān.
brahmāṇamīśaṃ kamalāsanasthamṛrṣīśca sarvānuragāṃśca divyān .. 15 ..
हे देव! मैं आपके शरीर में समस्त देवों को तथा स्थावर-जङ्गम रूप नाना प्रकार की विभक्त आकृति वाले समस्त भूतविशेषों के समूहों को एवं कमलासन पर विराजमान अर्थात् पृथ्वीरूप कमल में सुमेरु रूप कर्णिका पर बैठे हुए प्रजा के शासनकर्ता चतुर्मुख ब्रह्मा को, वसिष्ठादि ऋषियों को और वासुकि प्रभृति समस्त दिव्य अर्थात् देवलोक में होने वाले सर्पों को देख रहा हूँ ॥ १५ ॥
तात्पर्य पढ़ें
पश्यामि उपलभे हे देव तव देहे देवान् सर्वान् तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घा भूतविशेषसङ्घाः तान्। किं च ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थम् इत्यर्थः। ऋषीन् च वसिष्ठादीन्, सर्वान् उरगान् च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥