किं च—
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
kiṃ ca—
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā.
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam .. 2 ..
मैंने आपसे प्राणियों के भव—उत्पत्ति और अप्यय—प्रलय, ये दोनों संक्षेप से नहीं, विस्तारपूर्वक सुने हैं; और हे कमलपत्राक्ष अर्थात् कमलपत्रके सदृश नेत्रोंवाले कृष्ण! आपका अविनाशी—अक्षय माहात्म्य भी मैं सुन चुका हूँ। ‘श्रुतम्’ यह क्रिया-पद पूर्ववाक्य से लिया गया है ॥ २ ॥
तात्पर्य पढ़ें
भव उत्पत्तिः अप्ययः प्रलयो भूतानां तौ भवाप्ययौ श्रुतौ विस्तरशो मया न सङ्क्षेपतः त्वत्तः त्वत्सकाशात् कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वद् अक्षिणी यस्य तव स त्वं कमलपत्राक्षो हे कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् अक्षयं श्रुतम् इति अनुवर्तते ॥ २ ॥