अध्याय 11 - श्लोक 21

अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्गः स्तुवन्ति त्वां स्तुतिभिःपुष्कलाभिः ॥ २१ ॥

amī hi tvā surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti.
svastītyuktvā maharṣisiddhasaṅgaḥ stuvanti tvāṃ stutibhiḥpuṣkalābhiḥ .. 21 ..


तथा और भी—

किं च अन्यत्—


यह युद्ध करनेवाले योद्धा-स्वरूप देवगण, यानी जो भूमिका भार उतारने के लिये यहाँ अवतीर्ण हुए हैं, वे मनुष्योंकी-सी आकृतिवाले वस्वादि देव-समुदाय आपमें (दौड़-दौड़कर) प्रवेश कर रहे हैं अर्थात् प्रवेश करते हुए दिखलायी दे रहे हैं। उनमेंसे अन्य कोई-कोई तो भागने में असमर्थ होनेके कारण भयभीत होकर हाथ जोड़े हुए आपकी स्तुति कर रहे हैं।

तथा महर्षियों और सिद्धोंके समुदाय युद्ध आरम्भ होने पर उत्पात आदि अशुभ चिह्नोंको देखकर ‘संसारका कल्याण हो’ ऐसा कहकर अनेकों अर्थात् सम्पूर्ण स्तोत्रोंद्वारा आपकी स्तुति कर रहे हैं ॥ २१ ॥

तात्पर्य पढ़ें

अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसङ्घा ये अत्र भूभारावताराय अवतीर्णां वस्वादिदेवसङ्घा मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तो दृश्यन्ते । तत्र केचिद् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायने अपि अशक्ताः सन्तः ।

युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगत इति उक्त्वा महर्षिसिद्धसङ्घा महर्षीणां सिद्धानां च सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः ॥ २१ ॥