अध्याय 11 - श्लोक 22

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥ २२ ॥

rudrādityā vasavo ye ca sādhyā viśve’śvinau marutaścoṣmapāśca .
gandharvayakṣāsurasiddhasaṅghā vīkṣante tvā vismitāścaiva sarve .. 22 ..


क्योंकि—

जो रुद्र, आदित्य, वसु और साध्य आदि देवगण हैं, एवं जो विश्वेदेव, दोनों अश्विनीकुमार, वायुदेव और ऊष्मपा नामक पितृगण हैं तथा जो गन्धर्व, यक्ष, असुर और सिद्धों के समुदाय हैं यानी हाहा-हूहू आदि गन्धर्व, कुबेरादि यक्ष, विरोचनादि असुर और कपिलादि सिद्ध इन सबके समुदाय हैं, वे सभी आश्चर्ययुक्त हुए आपको देख रहे हैं ॥ २२ ॥
तात्पर्य पढ़ें

यस्मात्—

रुद्रादित्या वसवो ये च साध्या रुद्रादयो गणा विश्वे अश्विनौ च देवौ मरुतः च ऊष्मपाः च पितरो गन्धर्वयक्षासुरसिद्धसङ्घा गन्धर्वा हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयः असुरा विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां सङ्घा गन्धर्वयक्षासुरसिद्धसङ्घाः ते वीक्षन्ते पश्यन्ति त्वा त्वां विस्मिता विस्मयम् आपन्नाः सन्तः ते एव सर्वे ॥ २२ ॥