अध्याय 11 - श्लोक 24

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram .
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo .. 24 ..


क्योंकि—

आपको आकाशका स्पर्श किये हुए यानी स्वर्गतक व्याप्त, प्रदीप्त—प्रकाशमान और अनेक वर्णोंवाले अर्थात् अनेक भयंकर आकृतियोंसे युक्त देखकर तथा फैलाये हुए मुखोंवाले—जिस शरीरमें फैलाये हुए बहुत-से मुख हैं ऐसे और दीप्त विशाल नेत्रोंवाले—जिसके बड़े-बड़े नेत्र प्रज्वलित हो रहे हैं ऐसे, देखकर हे विष्णो! प्रव्यथित-अन्तरात्मा—अत्यन्त भयभीत अन्तःकरणवाला मैं अर्थात् जिसका मन भयसे व्याकुल हो रहा है, ऐसा, मैं धैर्य और उपशमको अर्थात् मन की तृप्तिरूप शान्तिको नहीं पा रहा हूँ ॥ २४ ॥
तात्पर्य पढ़ें

कस्मात्—

नभःस्पृशं द्युस्पर्शम् इत्यर्थः, दीप्तं प्रज्वलितम् अनेकवर्णम् अनेके वर्णा भयङ्करा नानासंस्थाना यस्मिन् त्वयि तं त्वाम् अनेकवर्णम्, व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननं दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनो यस्य मम सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं च उपशमं मनस्तुष्टिं हे विष्णो ॥ २४ ॥