अध्याय 11 - श्लोक 26

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ .
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ .. 26 ..


ये दुर्योधन आदि धृतराष्ट्र के समस्त पुत्र अवनिपालों के दलों सहित—अवनि यानी पृथ्वी का जो पालन करें उनका नाम अवनिपाल है। उनके दलों सहित इकट्ठे होकर बड़े वेग से आपके मुखों में प्रवेश कर रहे हैं। यही नहीं, किंतु भीष्म, द्रोण और यह सूतपुत्र—कर्ण एवं हमारी ओर के भी धृष्टद्युम्नादि प्रधान योद्धाओं के सहित (सब-के-सब) ॥ २६ ॥

तथा—

तात्पर्य पढ़ें
अमी च त्वां धृतराष्ट्रस्य पुत्रा दुर्योधनप्रभृतयः त्वरमाणा विशन्ति इति व्यवहितेन सम्बन्धः ।* सर्वे सह एव संहता अवनिपालसङ्घैः अवनिं पृथ्वीं पालयन्ति इति अवनिपालाः तेषां सङ्घैः । किं च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैः अपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह ॥ २६ ॥