अध्याय 11 - श्लोक 32

श्रीभगवानुवाच—
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

śrībhagavānuvāca—
kālo’smi lokakṣayakṛtpravṛddho lokān samāhartumiha pravṛttaḥ .
ṛte’pi tvā na bhaviṣyanti sarve ye’vasthitāḥ pratyanīkeṣu yodhāḥ .. 32 ..


मैं लोकोंका नाश करनेवाला बढ़ा हुआ काल हूँ। मैं जिस लिये बढ़ा हूँ वह सुन, इस समय मैं लोकोंका संहार करने के लिये प्रवृत्त हुआ हूँ, इससे तेरे बिना भी (अर्थात् तेरे युद्ध न करने पर भी) ये सब भीष्म, द्रोण और कर्ण प्रभृति शूरवीर—योद्धालोग जिनसे तुझे आशङ्का हो रही है एवं जो प्रतिपक्षियों की प्रत्येक सेना में अलग-अलग डटे हुए हैं—नहीं रहेंगे ॥ ३२ ॥

क्योंकि ऐसा है—

तात्पर्य पढ़ें

कालः अस्मि लोकक्षयकृत्। लोकानां क्षयं करोति इति लोकक्षयकृत् प्रवृद्धो वृद्धिं गतः । यदर्थं प्रवृद्धः तत् शृणु लोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः । ऋते अपि विना अपि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्ण-प्रभृतयः सर्वे येभ्यः तव आशङ्का ये अवस्थिताः प्रत्यनीकेषु अनीकम् अनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधा योद्धारः ॥ ३२ ॥

यस्माद् एवम्—