अध्याय 11 - श्लोक 33

तस्मात्त्वमुत्तिष्ठयशोलभस्वजित्वाशत्रून् भुङ्क्ष्वराज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

tasmāttvamuttiṣṭhayaśolabhasvajitvāśatrūn bhuṅkṣvarājyaṃ samṛddham .
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin .. 33 ..


इसलिये तू खड़ा हो और ‘देवों से भी न जीते जानेवाले भीष्म, द्रोण आदि महारथियों को अर्जुनने जीत लिया’ ऐसे निर्मल यशको लाभ कर। ऐसा यश पुण्योंसे ही मिला करता है। दुर्योधनादि शत्रुओं को जीतकर समृद्धिसम्पन्न निष्कण्टक राज्य भोग।

ये सब (शूरवीर) मेरे द्वारा निःसन्देह पहले ही मारे हुए हैं अर्थात् प्राणविहीन किये हुए हैं। हे सव्यसाचिन्! तू केवल निमित्तमात्र बन जा। बायें हाथसे भी बाण चलाने का अभ्यास होने के कारण अर्जुन ‘सव्यसाची’ कहलाता है ॥ ३३ ॥

तात्पर्य पढ़ें

तस्मात् त्वम् उत्तिष्ठ भीष्मद्रोणप्रभृतयः अतिरथा अजेया देवैः अपि अर्जुनेन जिता इति यशो लभस्व केवलं पुण्यैः हि तत् प्राप्यते। जित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम्।

मया एव एते निहता निश्चयेन हताः प्राणैः वियोजिताः पूर्वम् एव। निमित्तमात्रं भव त्वं हे सव्यसाचिन् सव्येन वामेन अपि हस्तेन शराणां क्षेपात् सव्यसाची इति उच्यते अर्जुनः ॥ ३३ ॥