अध्याय 11 - श्लोक 5

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

paśya me pārtha rūpāṇi śataśo’tha sahasraśaḥ .
nānāvidhāni divyāni nānāvarṇākṛtīni ca .. 5 ..


हे पार्थ! तू मेरे सैकड़ों-हजारों अर्थात् अनेकों रूपोंको देख, जो कि नाना प्रकारके भेदवाले और दिव्य अर्थात् देवलोकमें होनेवाले—अलौकिक हैं तथा नाना प्रकारके वर्ण और आकृतिवाले हैं अर्थात् जिनके नील, पीत आदि नाना प्रकारके वर्ण और अनेक आकारवाले अवयव हैं, ऐसे रूपोंको देख ॥ ५ ॥
तात्पर्य पढ़ें
पश्य मे मम पार्थ रूपाणि शतशः अथ सहस्रशः अनेकश इत्यर्थः । तानि च नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणा नीलपीतादिप्रकारा वर्णाः तथा आकृतयो अवयवसंस्थानविशेषा येषां रूपाणां तानि नानावर्णाकृतीनि च ॥ ५ ॥