अध्याय 11 - श्लोक 50

इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥

ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ .
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā .. 50 ..


इस प्रकार भगवान् वासुदेव ने पूर्वोक्त वचन कहकर अर्जुन को अपना—वसुदेव के घर में प्रकट हुआ रूप दिखलाया। फिर सौम्यमूर्ति होकर अर्थात् प्रसन्न देह से युक्त होकर महात्मा कृष्ण ने इस भयभीत अर्जुन को पुनः-पुनः धैर्य दिया ॥ ५० ॥

अर्जुन बोले—

तात्पर्य पढ़ें
इति एवम् अर्जुनं वासुदेवः तथा भूतं वचनम् उक्त्वा स्वकं वसुदेव गृहे जातं रूपं दर्शयामास दर्शितवान् । भूयः पुनः आश्वासयामास च आश्वासितवान् च भीतम् एनं भूत्वा पुनः सौम्यवपुः प्रसन्नदेहो महात्मा ॥ ५० ॥