एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
evamuktvā tato rājanmahāyogeśvaro hariḥ .
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram .. 9 ..
हे राजा धृतराष्ट्र! इस प्रकार कहने के अनन्तर महायोगेश्वर श्रीहरिने यानी जो अति महान् और योगेश्वर भी हैं उन नारायणने पृथापुत्र अर्जुन को अपना ईश्वरीय परम रूप—विराट्स्वरूप दिखलाया ॥ ९ ॥
तात्पर्य पढ़ें
एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं हे राजन् धृतराष्ट्र महायोगेश्वरो महान् च असौ योगेश्वरः च हरिः नारायणो दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम् ॥ ९ ॥