अध्याय 12 - श्लोक 15

यस्मान्नोद्धिजते लोको लोकान्नोद्धिजते च यः।
हर्षामर्षभयोद्धेगैर्मुक्तो यः स च मे प्रियः॥ १५ ॥

yasmānnoddhijate loko lokānnoddhijate ca yaḥ.
harṣāmarṣabhayoddhegairmukto yaḥ sa ca me priyaḥ.. 15 ..


जिस संन्यासीसे संसार उद्वेगको प्राप्त नहीं होता अर्थात् संतप्त—क्षुब्ध नहीं होता और जो स्वयं भी संसारसे उद्वेगयुक्त नहीं होता।

जो हर्ष, अमर्ष, भय और उद्वेगसे रहित है—प्रिय वस्तुके लाभसे अन्त:करणमें जो उत्साह होता है,

रोमाञ्च और अश्रुपात आदि जिसके चिह्न हैं उसका नाम ‘हर्ष’ है, असहिष्णुताको ‘अमर्ष’ कहते हैं, त्रासका नाम ‘भय’ है और उद्विग्नता ही ‘उद्वेग’ है इन सबसे जो मुक्त है वह मेरा प्यारा है ॥ १५ ॥

तात्पर्य पढ़ें

यस्मात् सन्न्यासिनो न उद्विजते न उद्वेगं गच्छति न सन्तप्यते न सङ्क्षुभ्यते लोकः । तथा लोकाद् न उद्विजते च यः ।

हर्षामर्षभयोद्वेगैः हर्षः च अमर्षः च भयं च उद्वेगः च तैः हर्षामर्षभयोद्वेगैः मुक्तः ।

हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गः अमर्षः असहिष्णुता भयं त्रास उद्वेग उद्विग्नता तैः मुक्तो यः स च मे प्रियः ॥ १५ ॥