अध्याय 12 - श्लोक 18

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ .
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ .. 18 ..


जो शत्रु-मित्र में और मानापमान में अर्थात् सत्कार और तिरस्कार में समान रहता है एवं शीत-उष्ण और सुख-दुःख में भी समभाववाला है तथा सर्वत्र आसक्ति से रहित हो चुका है ॥ १८ ॥

तथा—

तात्पर्य पढ़ें
समः शत्रौ च मित्रे च तथा मानापमानयोः पूजापरिभवयोः शीतोष्णसुखदुःखेषु समः सर्वत्र च सङ्गवर्जितः ॥ १८ ॥