लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā .
rajasyetāni jāyante vivṛddhe bharatarṣabha .. 12 ..
हे भरतवंशियों में श्रेष्ठ! लोभ—परद्रव्य को प्राप्त करने की इच्छा, प्रवृत्ति—सामान्यभावसे सांसारिक चेष्टा और कर्मों का आरम्भ तथा अशान्ति—उपरामता—का अभाव, हर्ष और रागादिका प्रवृत्त होना तथा लालसा अर्थात् सामान्यभावसे समस्त वस्तुओंमें तृष्णा—ये सब चिह्न रजोगुणके बढ़ने पर उत्पन्न होते हैं ॥ १२ ॥
तात्पर्य पढ़ें
लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भः, कस्य, कर्मणाम्। अशमः अनुपशमः, हर्षरागादिप्रवृत्तिः, स्पृहा सर्व-सामान्यवस्तुविषया तृष्णा, रजसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥ १२ ॥