अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
aprakāśo’pravṛttiśca pramādo moha eva ca.
tamasyetāni jāyante vivṛddhe kurunandana .. 13 ..
हे कुरुनन्दन ! अप्रकाश अर्थात् अत्यन्त अविवेक, प्रवृत्तिका अभाव, उसका कार्य प्रमाद और मोह अर्थात् अविवेकरूप मूढ़ता—ये सब चिह्न तमोगुण की वृद्धि होनेपर उत्पन्न होते हैं ॥ १३ ॥
मरण–समयकी अवस्थाके द्वारा जो फल मिलता है, वह सब भी आसक्ति और रागसे ही होनेवाला तथा गुणजन्य ही होता है, यह दिखानेके लिये कहते हैं—
तात्पर्य पढ़ें
अप्रकाशः अविवेकः अत्यन्तं अप्रवृत्तिः च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव च अविवेको मूढता इत्यर्थः। तमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥
मरणद्वारेण अपि यत्फलं प्राप्यते तद् अपि सङ्गरागहेतुकं सर्वं गौणम् एव इति दर्शयन् आह—