अध्याय 14 - श्लोक 16

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam .
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam .. 16 ..


श्रेष्ठ पुरुषों ने शुभ कर्म का, अर्थात् सात्त्विक कर्म का फल सात्त्विक और निर्मल ही बतलाया है, तथा राजस कर्म का फल दुःख बतलाया है, अर्थात् कर्माधिकार से राजस कर्म का फल भी अपने कारण के अनुसार दुःखरूप राजस ही होता है (ऐसा कहा है) और वैसे ही, तामसरूप अधर्म का—पापकर्म का फल अज्ञान बतलाया है ॥ १६ ॥

गुणों से क्या उत्पन्न होता है? (सो कहते हैं—)

तात्पर्य पढ़ें

कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः । आहुः शिष्टाः सात्त्विकम् एव निर्मलं फलम् इति । रजसः तु फलं दुःखं राजसस्य कर्मण इत्यर्थः । कर्माधिकारात् फलम् अपि दुःखम् एव कारणानुरूप्याद् राजसम् एव । तथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६ ॥

किं च गुणेभ्यो भवति—