अध्याय 14 - श्लोक 17

सत्त्वात्सञ्चायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

sattvātsañcāyate jñānaṃ rajaso lobha eva ca .
pramādamohau tamaso bhavato’jñānameva ca .. 17 ..


उत्कर्ष को प्राप्त हुए सत्त्वगुण से ज्ञान उत्पन्न होता है और रजोगुण से लोभ होता है तथा तमोगुण से प्रमाद और मोह—ये दोनों होते हैं और अज्ञान भी होता है ॥ १७ ॥
तात्पर्य पढ़ें

तथा—

सत्त्वाद् लब्धात्मकात् सञ्जायते समुत्पद्यते ज्ञानम्, रजसो लोभ एव च प्रमादमोहौ च उभौ तमसो भवतः अज्ञानम् एव च भवति ॥ १७ ॥