कैलिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥
arjuna uvāca—
kailiṅgaistrīnguṇānetānatīto bhavati prabho.
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate .. 21 ..
हे प्रभो! इन पूर्ववर्णित तीनों गुणोंसे अतीत— पार हुआ पुरुष किन-किन लक्षणोंसे युक्त होता है? और वह कैसे आचरणवाला होता है अर्थात् उसके आचरण कैसे होते हैं? तथा किस प्रकार से (किस उपाय से) मनुष्य इन तीनों गुणोंसे अतीत हो सकता है?॥ २१॥
इस (उपर्युक्त) श्लोक में अर्जुनने गुणातीत के लक्षण और गुणातीत होने का उपाय पूछा है, उन दोनों प्रश्नों का उत्तर देने के लिये श्रीभगवान् बोले कि पहले गुणातीत पुरुष किन-किन लक्षणोंसे युक्त होता है उसे सुन—
तात्पर्य पढ़ें
कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तो भवति प्रभो। किमाचारः कः अस्य आचार इति किमाचारः। कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते ॥ २१ ॥
गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनम्—श्रीभगवान् उवाच—यत् तावत् कैः लिङ्गैः युक्तो गुणातीतो भवति इति तत् शृणु—