तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām .
pramādālasyanidrābhistannibadhnāti bhārata .. 8 ..
और समस्त देहधारियों को मोहित करनेवाले तमोगुण को, यानी जीवों के अन्त:करणमें मोह—अविवेक उत्पन्न करनेवाले तम नामक तीसरे गुणको, तू अज्ञानसे उत्पन्न हुआ जान। हे भारत ! वह तमोगुण, (जीवों को) प्रमाद, आलस्य और निद्रा के द्वारा बाँधा करता है ॥ ८ ॥
फिर भी उन गुणोंका व्यापार संक्षेपसे बतलाया जाता है—
तात्पर्य पढ़ें
तमः तृतीयो गुणः अज्ञानजम् अज्ञानाद् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवतां प्रमादालस्यनिद्राभिः प्रमादः च आलस्य च निद्रा च प्रमादालस्यनिद्राः ताभिः तत् तमो निबध्नाति भारत ॥ ८ ॥
पुनः गुणानां व्यापारः सङ्क्षेपत उच्यते—