अध्याय 15 - श्लोक 14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ .
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham .. 14 ..


मैं ही, पेटमें रहनेवाला जठराग्नि होकर अर्थात् ‘यह अग्नि वैश्वानर है जो कि पुरुषके भीतर स्थित है और जिससे यह (खाया हुआ) अन्न पचता है’ इत्यादि श्रुतियोंसे जिसका वर्णन किया गया है, वह वैश्वानर होकर, प्राणियोंके शरीरमें स्थित—प्रविष्ट होकर प्राण और अपानवायुसे संयुक्त हुआ भक्ष्य, भोज्य, लेह्य और चोष्य—ऐसे चार प्रकारके अन्नोंको पचाता हूँ।

वैश्वानर अग्नि खानेवाला है और सोम खाया जानेवाला अन्न है। सुतरां यह सारा जगत् अग्नि और सोमस्वरूप है, इस प्रकार देखनेवाला मनुष्य अन्नके दोषसे लिप्त नहीं होता ॥ १४ ॥

तथा—

तात्पर्य पढ़ें

अहम् एव वैश्वानर उदरस्थः अग्निः भूत्वा ‘अयम् अग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते’ (बृह० उ० ५। १। १) इत्यादिश्रुतेः वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि चतुर्विधं चतुष्प्रकारम् अन्नम् अशनं भोज्यं भक्ष्यं चोष्यं लेह्यं च।

भोक्ता वैश्वानरः अग्निः भोज्यम् अन्नं सोमः तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति पश्यतः अन्नदोषलेपो न भवति ॥ १४ ॥