चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥
yasmātkṣaramatīto’hamakṣarādapi
cottamaḥ .
ato’smi loke vede ca prathitaḥ puruṣottamaḥ .. 18 ..
क्योंकि मैं क्षरभावसे अतीत हूँ अर्थात् अश्वत्थ नामक मायामय संसारवृक्षका अतिक्रमण किये हुए हूँ और संसारवृक्षके बीजस्वरूप अक्षरसे (मूल प्रकृतिसे) भी उत्तम—अतिशय उत्कृष्ट अथवा अतिशय उच्च हूँ। इसीलिये अर्थात् क्षर और अक्षरसे उत्तम होनेके कारण लोक और वेदमें मैं पुरुषोत्तम नामसे विख्यात हूँ। भक्तजन मुझे इसी प्रकार जानते हैं और कविजन भी काव्यादिमें इसी नामका प्रयोग करते हैं अर्थात् ‘पुरुषोत्तम’ इसी नामसे ही मेरा वर्णन करते हैं ॥ १८ ॥
अब इस प्रकार बतलाये हुए आत्मतत्त्वको जो जानता है उसके लिये यह फल बतलाया जाता है—
तात्पर्य पढ़ें
यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षराद् अपि संसारवृक्षबीजभूताद् अपि च उत्तम उत्कृष्टतम ऊर्ध्वतमो वा, अतः क्षराक्षराभ्याम् उत्तमत्वाद् अस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इति एवं मां भक्तजना विदुः कवयः काव्यादिषु च इदं नाम निबध्नन्ति पुरुषोत्तम इति अनेन अभिधानेन अभिगृणन्ति ॥ १८ ॥
अथ इदानीं यथा निरुक्तम् आत्मानं यो वेद तस्य इदं फलम् उच्यते—