अध्याय 15 - श्लोक 4

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ .
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī .. 4 ..


उसके पश्चात् उस परम वैष्णव-पदको खोजना चाहिये अर्थात् जानना चाहिये कि जिस पदमें पहुँचे हुए पुरुष, फिर संसारमें नहीं लौटते—पुनर्जन्म ग्रहण नहीं करते।

(उस पदको) कैसे खोजना चाहिये? सो कहते हैं—

जो पदशब्दसे कहा गया है, उसी आदिपुरुषकी मैं शरण हूँ, इस भावसे अर्थात् उसके शरणागत होकर खोजना चाहिये।

वह पुरुष कौन है, सो बतलाते हैं—

जिस पुरुषसे बाजीगरकी मायाके समान इस मायारचित संसारवृक्षकी सनातन प्रवृत्ति विस्तारको प्राप्त हुई है—प्रकट हुई है ॥ ४ ॥

उस परमपदको कैसे पुरुष प्राप्त करते हैं ? सो कहते हैं—

तात्पर्य पढ़ें

ततः पश्चात् पदं वैष्णवं तत्परिमार्गितव्यं परिमार्गणम् अन्वेषणं ज्ञातव्यम् इत्यर्थः; यस्मिन् पदे गताः प्रविष्टा न निवर्तन्ति न आवर्तन्ते भूयः पुनः संसाराय।

कथं परिमार्गितव्यम् इति आह—

तम् एव च यः पदशब्देन उक्तं आद्यम् आदौ भवं पुरुषं प्रपद्ये इति एवं परिमार्गितव्यं तच्छरणतया इत्यर्थः ।

कः असौ पुरुष इति उच्यते—

यतो यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता ऐन्द्रजालिकाद् इव माया पुराणी चिरन्तनी ॥ ४ ॥

कथम्भूताः तत् पदं गच्छन्ति इति उच्यते—