किं च—
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥
kiṃ ca—
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ .
kāmopabhogaparamā etāvaditi niścitāḥ .. 11 ..
जिसकी इयत्ता न जानी जा सके, ऐसी अपरिमेय— अपार, प्रलयतक—मरणपर्यन्त रहनेवाली चिन्ता के आश्रित हुए, अर्थात् सदा चिन्ताग्रस्त हुए, तथा कामोपभोग के परायण—जिनकी कामना की जाय वे शब्दादि विषय काम हैं, उनके उपभोग में तत्पर हुए— तथा विषयों का उपभोग करना, बस यही परम पुरुषार्थ है, ऐसा निश्चय रखनेवाले ॥ ११ ॥
तात्पर्य पढ़ें
चिन्ताम् अपरिमेयां च न परिमातुं शक्यते यस्याः चिन्ताया इयत्ता सा अपरिमेया ताम् अपरिमेयां प्रलयान्तां मरणान्ताम् उपाश्रिताः सदा चिन्तापरा इत्यर्थः कामोपभोगपरमाः कामयन्ते इति कामाः शब्दादयः तदुपभोगपरमाः, अयम् एव परमः पुरुषार्थो यः कामोपभोग इति एवं निश्चितात्मानः एतावद् इति निश्चिताः ॥ ११ ॥