अध्याय 16 - श्लोक 14

असौ मया हतः शत्रुर्हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

asau mayā hataḥ śatrurhaniṣye cāparānapi.
īśvaro’hamahaṃ bhogī siddho’haṃ balavānsukhī .. 14 ..


अमुक देवदत्त नामक दुर्जय शत्रु तो मेरे द्वारा मारा जा चुका, अब दूसरे पामर निर्बल शत्रुओं को भी मैं मार डालूँगा, यह बेचारे गरीब मेरा क्या करेंगे जो किसी तरह भी मेरे समान नहीं हैं। मैं ईश्वर हूँ, भोगी हूँ, सब प्रकार से सिद्ध हूँ तथा पुत्र-पौत्र और नप्तृभिः से सम्पन्न हूँ। मैं केवल साधारण मनुष्य ही नहीं हूँ, बल्कि बड़ा बलवान् और सुखी भी मैं ही हूँ, दूसरे सब तो भूमि पर भाररूप ही उत्पन्न हुए हैं॥ १४॥
तात्पर्य पढ़ें
असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः, हनिष्ये च अन्यान् वराकान् अपरान् अपि किम् एते करिष्यन्ति तपस्विनः सर्वथा अपि न अस्ति मत्तुल्य ईश्वरः अहम् अहं भोगी सर्वप्रकारेण च सिद्धः अहं सम्पन्नः पुत्रैः पौत्रैः नप्तृभिः न केवलं मानुषः अहं बलवान् सुखी च अहम् एव अन्ये तु भूमिभाराय अवतीर्णाः ॥ १४ ॥