अध्याय 16 - श्लोक 4

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासूरीम् ॥ ४ ॥

dambho darpo’timānaśca krodhaḥ pāruṣyameva ca .
ajñānaṃ cābhijātasya pārtha sampadamāsūrīm .. 4 ..


दम्भ—धर्मध्वजीपन, दर्प—धन-परिवार आदिके निमित्तसे होनेवाला गर्व, अतिमान—पहले कही हुई अपनेमें अतिशय पूज्य भावना तथा क्रोध और पारुष्य यानी कठोर वचन जैसे (आक्षेपसे) कानेको अच्छे नेत्रोंवाला, कुरूपको रूपवान् और हीन जातिवालेको उत्तम जातिवाला बतलाना इत्यादि।

अज्ञान अर्थात् अविवेक—कर्तव्य और अकर्तव्यादिके विषयमें उलटा निश्चय करना। हे पार्थ! ये सब लक्षण, आसुरी सम्पत्ति को ग्रहण करके उत्पन्न हुए मनुष्यके हैं, अर्थात् जो असुरों की सम्पत्ति है उससे युक्त होकर उत्पन्न हुए मनुष्यके चिह्न हैं ॥ ४ ॥

इन दोनों सम्पत्तियोंका कार्य बतलाया जाता है—

तात्पर्य पढ़ें

दम्भो धर्मध्वजित्वम्, दर्पो धनस्वजनादि- निमित्त उत्सेकः, अतिमानः पूर्वोक्तः, क्रोधः च पारुष्यम् एव च परुषवचनं यथा काणं चक्षुष्मान्, विरूपं रूपवान् हीनाभिजनम् उत्तमाभिजन इत्यादि।

अज्ञानं च अविवेकज्ञानं मिथ्याप्रत्ययः कर्तव्याकर्तव्यादिविषयम् अभिजातस्य पार्थ । किम् अभिजातस्य इति आह—असुराणां सम्पद् आसुरी ताम् अभिजातस्य इत्यर्थः ॥ ४ ॥

अनयोः सम्पदोः कार्यम् उच्यते—