ते
एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥
एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥
te
etāṃ dṛṣṭimavaṣṭabhya
naṣṭātmāno’lpabuddhayaḥ .
prabhavantyugrakarmāṇaḥ kṣayāya jagato’hitāḥ .. 9 ..
तथा वे—
इस दृष्टिका अवलम्बन—आश्रय लेकर जिनका स्वभाव नष्ट हो गया है, जो परलोकसाधन से भ्रष्ट हो गये हैं, जो अल्पबुद्धि हैं—जिनकी बुद्धि केवल भोगों को ही विषय करनेवाली है, ऐसे वे अल्पबुद्धि, उग्रकर्मा—क्रूर कर्म करनेवाले, हिंसापरायण संसार के शत्रु, संसार का नाश करने के लिये ही उत्पन्न होते हैं ॥ ९ ॥
तात्पर्य पढ़ें
ते च—
एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानो नष्टस्वभावा विभ्रष्टपरलोकसाधना अल्पबुद्धयो विषयविषया अल्पा एव बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणो हिंसात्मकाः क्षयाय जगतः प्रभवन्ति इति सम्बन्धः । जगतः अहिताः शत्रव इत्यर्थः ॥ ९ ॥