यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat.
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam .. 10 ..
यातयाम—अधपका, गतरस—रसरहित, पूति—दुर्गन्धयुक्त और बासी अर्थात् जिसको पके हुए एक रात बीत गयी हो, तथा उच्छिष्ट—खाने के पश्चात् बचा हुआ और अमेध्य—जो यज्ञके योग्य न हो, ऐसा भोजन तामसी मनुष्योंको प्रिय होता है । यहाँ, यातयामका अर्थ अधपका किया गया है; क्योंकि निर्वीर्य ( सारहीन भोजन को ‘गतरस’ शब्दसे कहा गया है ॥ १० ॥
अब तीन प्रकारके यज्ञ बतलाये जाते हैं—
तात्पर्य पढ़ें
यातयामं मन्दपक्वं निर्वीर्यस्य गतरसेन उक्तत्वाद् गतरसं रसवियुक्तं पूति दुर्गन्धं पर्युषितं च पक्वं सद् रात्र्यन्तरितं च यद् उच्छिष्टम् अपि च भुक्तशिष्टम् अपि अमेध्यम् अयज्ञार्हं भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥
अथ इदानीं यज्ञः त्रिविध उच्यते—