देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥
devadvijaguruprājñapūjanaṃ śaucamārjavam .
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate .. 14 ..
देव, ब्राह्मण, गुरु और बुद्धिमान्—ज्ञानी इन सबका पूजन, शौच—पवित्रता, आर्जव—सरलता, ब्रह्मचर्य और अहिंसा यह सब शरीरसम्बन्धी—शरीरद्वारा किये जानेवाले तप कहे जाते हैं; अर्थात् शरीर जिनमें प्रधान है, ऐसे समस्त कार्य और
करणोंसे जो कर्ताद्वारा किये जायँ वे शरीरसम्बन्धी तप कहलाते हैं। आगे यह कहेंगे भी कि ‘उन ( सब कर्मों )-के ये पाँच कारण हैं’ इत्यादि ॥ १४ ॥
तात्पर्य पढ़ें
देवाः च द्विजाः च गुरवः च प्राज्ञाः च देवद्विजगुरुप्राज्ञाः तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ऋजुत्वं ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्यं शारीरं शरीरप्रधानः सर्वैः एव
कार्य-करणैः कर्त्रादिभिः साध्यं शारीरं तपः उच्यते। ‘पञ्चैते तस्य हेतवः’ इति हि वक्ष्यति ॥ १४ ॥