यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ.
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam .. 21 ..
जो दान प्रत्युपकारके लिये अर्थात् कालान्तरमें यह मेरा प्रत्युपकार करेगा, इस अभिप्रायसे अथवा इस दानसे मुझे परलोकमें फल मिलेगा ऐसे उद्देश्यसे क्लेश—खेदपूर्वक दिया जाता है, वह राजस कहा गया है ॥ २१ ॥
तात्पर्य पढ़ें
यत् तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इति एवम् अर्थं फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति तद् उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तं तद् राजसं स्मृतम् ॥ २१ ॥