ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ .
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā .. 23 ..
ओम् तत् सत्—यह तीन प्रकारका ब्रह्मका निर्देश है। जिससे कोई वस्तु बतलायी जाय उसका नाम निर्देश है, अतः यह ब्रह्मका तीन प्रकारका नाम है, ऐसा वेदान्तमें ब्रह्मज्ञानियोंद्वारा माना गया है। पूर्वकालमें इस तीन प्रकारके नामसे ही ब्राह्मण, वेद और यज्ञ—ये सब रचे गये हैं। यह ब्रह्मके नामकी स्तुति करनेके लिये कहा जाता है ॥ २३ ॥
तात्पर्य पढ़ें
ॐ तत्सद् इति एष निर्देशो निर्दिश्यते अनेन इति निर्देशः त्रिविधो नामनिर्देशो ब्रह्मणः स्मृतः चिन्तितो वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाः च यज्ञाः च विहिता निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् उच्यते ॥ २३ ॥