तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ .
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ .. 25 ..
‘तत्’ ऐसे इस ब्रह्मके नामका उच्चारण करके और कर्मोंके फलको न चाहकर नाना प्रकार की यज्ञ और तपरूप तथा दान अर्थात् भूमि, सोना आदिका दान करनारूप क्रियाएँ मोक्षको चाहनेवाले मुमुक्षु पुरुषों द्वारा की जाती हैं ॥ २५ ॥
ओम् और तत्-शब्दका प्रयोग तो कहा गया, अब सत्-शब्दका प्रयोग कहा जाता है—
तात्पर्य पढ़ें
तद् इति अनभिसन्धाय तद् इति ब्रह्माभिधानम् उच्चार्य अनभिसन्धाय च कर्मणः फलं यज्ञतपः- क्रिया यज्ञक्रियाः च तपःक्रियाः च यज्ञतपः- क्रिया दानक्रियाः च विविधाः क्षेत्रहिरण्य- प्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥
ॐ तच्छब्दयोः विनियोग उक्तः अथ इदानीं सच्छब्दस्य विनियोगः कथ्यते—