अध्याय 17 - श्लोक 28

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat.
asadityucyate pārtha na ca tatpretya no iha .. 28 ..


बिना श्रद्धाके किया हुआ हवन, बिना श्रद्धा के ब्राह्मणों को दिया हुआ दान, तपा हुआ तप तथा और भी जो कुछ बिना श्रद्धाके किया हुआ स्तुति—नमस्कारादि कर्म है वह सब, हे पार्थ ! मेरी प्राप्तिके साधन मार्ग से बाह्य होनेके कारण असत् है, ऐसा कहा जाता है। क्योंकि वह बहुत परिश्रमयुक्त होनेपर भी साधु पुरुषोंद्वारा निन्दित होनेके कारण न तो मरनेके पश्चात् फल देनेवाला होता है और न इस लोकमें ही सुखदायक होता है ॥ २८ ॥

इस अध्यायमें समस्त गीता-शास्त्र का आशय और वेदोंका सम्पूर्ण तात्पर्य इकट्ठा करके कहना है, इस अभिप्रायसे यह अठारहवाँ अध्याय आरम्भ किया जाता है।

इस अध्यायमें पहलेके सभी अध्यायों में कहा हुआ अभिप्राय मिलता है। तथापि अर्जुन केवल संन्यास और त्याग—इन दो शब्दोंके अर्थोंका भेद जानने की इच्छासे ही प्रश्न करता है—

अर्जुन बोला—

तात्पर्य पढ़ें

अश्रद्धया हुतं हवनं कृतं दत्तं च ब्राह्मणेभ्यः अश्रद्धया, तपः तप्तम् अनुष्ठितम् अश्रद्धया, तथा अश्रद्धया एव कृतं यत् स्तुतिनमस्कारादि तत् सर्वम् असद् इति उच्यते मत्प्राप्तिसाधन-मार्गबाह्यत्वात् पार्थ। न च तद् ब्रह्मायासम् अपि प्रेत्य फलाय नो अपि इहार्थं साधुभिः निन्दितत्वाद् इति ॥ २८ ॥

सर्वस्य एव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वः च वेदार्थो वक्तव्य इति एवम् अर्थः अयम् अध्याय आरभ्यते।

सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनः तु सन्न्यास-त्यागशब्दार्थयोः एव विशेषं बुभुत्सुः उवाच— अर्जुन उवाच—

इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन-संवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्कर-भगवतः कृतौ श्रीभगवद्गीताभाष्ये श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥