अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ .
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ .. 5 ..
जो मनुष्य, शास्त्र में जिसका विधान नहीं है ऐसा, अशास्त्रविहित और घोर अर्थात् अन्य प्राणियों को और अपने शरीर को भी पीड़ा पहुँचानेवाला, तप, दम्भ और अहंकार—इन दोनों से युक्त होकर तथा कामना और आसक्तिजनित बल से युक्त होकर, अथवा कामना, आसक्ति और बल से युक्त होकर तपते हैं ॥ ५ ॥
तात्पर्य पढ़ें
अशास्त्रविहितं न शास्त्रविहितम् अशास्त्र- विहितं घोरं पीडाकरं प्राणिनाम् आत्मनः च तपः तप्यन्ते निर्वर्तयन्ति ये तपो जनाः ते च दम्भाहङ्कारसंयुक्ता दम्भः च अहङ्कारः च दम्भाहङ्कारौ ताभ्यां संयुक्ता दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः कामः च रागः च कामरागौ तत्कृतं बलं कामरागबलं तेन अन्विताः कामरागबलैः वा अन्विताः ॥ ५ ॥