आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥
āyuḥsattvabalārogyasukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ .. 8 ..
आयु, बुद्धि, बल, आरोग्यता, सुख और प्रीति, इन सबको बढ़ानेवाले तथा रस्य—रसयुक्त, स्निग्ध—चिकने, स्थिर—शरीरमें बहुत कालतक (साररूपसे) रहनेवाले और हृद्य—हृदयको प्रिय लगनेवाले (ऐसे आहार भोजन करनेके पदार्थ) सात्त्विक पुरुष को प्रिय—इष्ट होते हैं ॥ ८ ॥
तात्पर्य पढ़ें
आयुः च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिः च तासां विवर्धना आयुः-सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ते च रस्या रसोपेताः स्निग्धाः स्नेहवन्तः स्थिराः चिरकालस्थायिनो देहे, हृद्या हृदयप्रिया आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः ॥ ८ ॥