कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा
दुःखशोकामयप्रदाः ॥ ९ ॥
आहारा राजसस्येष्टा
दुःखशोकामयप्रदाः ॥ ९ ॥
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyeṣṭā
duḥkhaśokāmayapradāḥ .. 9 ..
कड़वे, खट्टे, लवणयुक्त, अति उष्ण, तीक्ष्ण, रूखे और दाहकारक एवं दुःख, चिन्ता और रोगोंको उत्पन्न करनेवाले अर्थात् जो दुःख, शोक और रोगोंको उत्पन्न करते हों, ऐसे आहार राजस पुरुष को प्रिय होते हैं। यहाँ अति शब्द सबके साथ जोड़ना चाहिये, जैसे अति कड़वे, अत्यन्त खट्टे, अति तीक्ष्ण इत्यादि ॥ ९ ॥
तात्पर्य पढ़ें
कटुः अम्लो लवणः अत्युष्णः अतिशब्दः कट्वादिषु सर्वत्र योज्यः अतिकटुः अतितीक्ष्ण इति एवं कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन आहारा राजसस्य इष्टा दुःखशोकामयप्रदा दुःखं च शोकं च आमयं च प्रयच्छन्ति इति दुःखशोकामयप्रदाः ॥ ९ ॥